Pages

Showing posts with label Sanskrit. Show all posts
Showing posts with label Sanskrit. Show all posts

Jai Ganesh Deva - Ganesh Aarti in Hindi

Jai Ganesh Deva -  Ganesh Aarti Lyrics (Text) in Hindi
Jai Ganesh Deva - Ganesha Aarti Script in Hindi


जय गणेश जय गणेश जय गणेश देवा।
माता जाकी पार्वती पिता महादेवा॥१

एकदन्त दयावन्त चार भुजाधारी।
मस्तक पर सिन्दूर सोहे मूसे की सवारी॥२

अन्धन को आंख देत कोढ़िन को काया।
बांझन को पुत्र देत निर्धन को माया॥३

पान चढ़ै फूल चढ़ै और चढ़ै मेवा।
लडुअन का भोग लागे सन्त करें सेवा॥४

दीनन की लाज राखो शम्भु-सुत वारी।
कामना को पूरी करो जग बलिहारी॥५

Sri Maha Ganapati Sahasranama Stotram in Sanskrit

Sri Maha Ganapati Sahasranama Stotram in Sanskrit
Sri Maha Ganapati Sahasranama Stotram in Sanskrit

Sri Maha Ganapati Sahasranama Stotram - Sanskrit Lyrics (Text)
Sri Maha Ganapati Sahasranama Stotram - Sanskrit Script

मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥

ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥

मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ 3 ॥

विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ 4 ॥

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ 5 ॥

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य ।
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि ।
हुमिति बीजम्, तुङ्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

अथ करन्यासः
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥

अथ अङ्गन्यासः
छन्दश्छन्दोद्भव इति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ।
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनन्तशक्तिसहित इत्यस्त्राय फट् ।
भूर्भुवः स्वरोम् इति दिग्बन्धः ।

अथ ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥

श्रीगणपतिरुवाच
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ 1 ॥

लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ 2 ॥

भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ 3 ॥

नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ 4 ॥

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रो‌உघनाशनः ॥ 5 ॥

कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ 6 ॥

अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शाकलः संमितोमितः ॥ 7 ॥

कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ 8 ॥

विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ 9 ॥

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ 10 ॥

कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ 11 ॥

किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ 12 ॥

सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ 13 ॥

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ 14 ॥

चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ 15 ॥

गणाधिराजो विजयः स्थिरो गजपतिध्वजी ।
देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ 16 ॥

विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ 17 ॥

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ 18 ॥

शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ 19 ॥

यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ 20 ॥

ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषो‌உग्न्यर्कसोमदृक् ॥ 21 ॥

गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ 22 ॥

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ 23 ॥

नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठो‌உर्णवोदरः ॥ 24 ॥

कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ 25 ॥

पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ 26 ॥

हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ 27 ॥

प्रतापी काश्यपो मन्ता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ 28 ॥

चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ 29 ॥

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ 30 ॥

सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ 31 ॥

सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ 32 ॥

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ 33 ॥

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ 34 ॥

भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ 35 ॥

स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ 36 ॥

सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ 37 ॥

रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ।
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ 38 ॥

श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 39 ॥

सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ 40 ॥

सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ 41 ॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ 42 ॥

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ 43 ॥

कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ 44 ॥

पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ 45 ॥

पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ 46 ॥

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ 47 ॥

महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः ॥ 48 ॥

संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ 49 ॥

मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ।
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ 50 ॥

विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ 51 ॥

मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ 52 ॥

वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ।
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ 53 ॥

सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ 54 ॥

प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।
ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ 55 ॥

वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ॥ 56 ॥

अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ।
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ 57 ॥

अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ 58 ॥

सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ॥ 59 ॥

सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ 60 ॥

नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ 61 ॥

विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ 62 ॥

उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ 63 ॥

अनपायो‌உनन्तदृष्टिरप्रमेयो‌உजरामरः ।
अनाविलो‌உप्रतिहतिरच्युतो‌உमृतमक्षरः ॥ 64 ॥

अप्रतर्क्यो‌உक्षयो‌உजय्यो‌உनाधारो‌உनामयोमलः ।
अमेयसिद्धिरद्वैतमघोरो‌உग्निसमाननः ॥ 65 ॥

अनाकारो‌உब्धिभूम्यग्निबलघ्नो‌உव्यक्तलक्षणः ।
आधारपीठमाधार आधाराधेयवर्जितः ॥ 66 ॥

आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ 67 ॥

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ 68 ॥

इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ।
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ 69 ॥

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ 70 ॥

ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ 71 ॥

उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ 72 ॥

ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ 73 ॥

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ 74 ॥

एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ 75 ॥

ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ 76 ॥

ओङ्कारवाच्य ॐकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ 77 ॥

अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ।
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ 78 ॥

कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ 79 ॥

कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ 80 ॥

खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ।
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ 81 ॥

गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ 82 ॥

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ 83 ॥

घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ 84 ॥

चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ।
चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ 85 ॥

छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ 86 ॥

जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ 87 ॥

टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ।
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ 88 ॥

डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ।
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ 89 ॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ 90 ॥

स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ 91 ॥

दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ।
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ 92 ॥

दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ 93 ॥

ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 94 ॥

नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ 95 ॥

परं व्योम परं धाम परमात्मा परं पदम् ॥ 96 ॥

परात्परः पशुपतिः पशुपाशविमोचनः ।
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ 97 ॥

पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ।
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ 98 ॥

फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ।
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ 99 ॥

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 100 ॥

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ 101 ॥

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ 102 ॥

मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ 103 ॥

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ 104 ॥

रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ 105 ॥

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ 106 ॥

वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ 107 ॥

वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥ 108 ॥

शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥ 109 ॥

षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 110 ॥

सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः ।
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥ 111 ॥

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ 112 ॥

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥ 113 ॥

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ 114 ॥

धर्मप्रदो‌உर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ 115 ॥

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ 116 ॥

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ 117 ॥

पराभिचारशमनो दुःखहा बन्धमोक्षदः ।
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ 118 ॥

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ।
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ 119 ॥

राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ 120 ॥

राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥ 121 ॥

भूरापो‌உग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ 122 ॥

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ 123 ॥

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥ 124 ॥

वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ 125 ॥

वैखानसं भागवतं मानुषं पाञ्चरात्रकम् ।
शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥ 126 ॥

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ 127 ॥

बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ॥

ज्ञानं विज्ञानमानन्दो बोधः संवित्समो‌உसमः ।
एक एकाक्षराधार एकाक्षरपरायणः ॥ 129 ॥

एकाग्रधीरेकवीर एको‌உनेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ 130 ॥

द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ 131 ॥

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ 132 ॥

चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ॥

चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥ 134 ॥

पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥ 135 ॥

पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥ 136 ॥

षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ 137 ॥

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ 138 ॥

षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ 139 ॥

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥ 140 ॥

सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ 141 ॥

सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ 142 ॥

अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः ।
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ 143 ॥

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।
अष्टभैरवसेव्यो‌உष्टवसुवन्द्यो‌உष्टमूर्तिभृत् ॥ 144 ॥

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ।
नवनागासनाध्यासी नवनिध्यनुशासितः ॥ 145 ॥

नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।
नवनाथमहानाथो नवनागविभूषितः ॥ 146 ॥

नवनारायणस्तुल्यो नवदुर्गानिषेवितः ।
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥ 147 ॥

दशात्मको दशभुजो दशदिक्पतिवन्दितः ।
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ 148 ॥

दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ 149 ॥

द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ।
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ 150 ॥

चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ 151 ॥

सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥ 152 ॥

षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ 153 ॥

कलासप्तदशी सप्तदशसप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ 154 ॥

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ 155 ॥

अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ।
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ 156 ॥

चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ 157 ॥

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥ 158 ॥

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ।
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥ 159 ॥

चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ।
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ 160 ॥

चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥ 161 ॥

चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ।
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ 162 ॥

शतानीकः शतमखः शतधारावरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ 163 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ 164 ॥

दशसाहस्रफणिभृत्फणिराजकृतासनः ।
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ 165 ॥

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ 166 ॥

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ 167 ॥

शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ 168 ॥

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥ 169 ॥

अनन्तनामानन्तश्रीरनन्तो‌உनन्तसौख्यदः ।
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥ 170 ॥

इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ 171 ॥

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ 172 ॥

मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता ।
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥ 173 ॥

जगत्संवननं विश्वसंवादो वेदपाटवम् ।
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥ 174 ॥

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ 175 ॥

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ 176 ॥

राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ।
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ 177 ॥

धर्मार्थकाममोक्षाणामनायासेन साधनम् ।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ 178 ॥

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ 179 ॥

दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ।
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ 180 ॥

परकृत्यप्रशमनं परचक्रप्रमर्दनम् ।
सङ्ग्राममार्गे सवेषामिदमेकं जयावहम् ॥ 181 ॥

सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ 182 ॥

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ।
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ 183 ॥

क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ।
गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ 184 ॥

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ।
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥ 185 ॥

वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ।
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ 186 ॥

इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ।
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ 187 ॥

प्राप्यते‌உस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।
सहस्रनाममन्त्रो‌உयं जपितव्यः शुभाप्तये ॥ 188 ॥

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ 189 ॥

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥ 190 ॥

कामरूपः कामगतिः कामदः कामदेश्वरः ।
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥ 191 ॥

गणेशानुचरो भूत्वा गणो गणपतिप्रियः ।
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥ 192 ॥

शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ 193 ॥

जातिस्मरो धर्मपरः सार्वभौमो‌உभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ 194 ॥

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ।
निरन्तरे निराबाधे परमानन्दसञ्ज्ञिते ॥ 195 ॥

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ 196 ॥

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये‌एन्नरः ।
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥ 197 ॥

तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ।
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥ 198 ॥

नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ 199 ॥

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ।
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ 200 ॥

भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ।
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ 201 ॥

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ।
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ 202 ॥

स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ 203 ॥

लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ 204 ॥

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ॥ 205 ॥

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहम्प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ 206 ॥

अकिञ्चनोप्येकचित्तो नियतो नियतासनः ।
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ 207 ॥

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ 208 ॥

आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त -
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ 209 ॥

गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ 210 ॥

अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः कलः ॥ 211 ॥

काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ 212 ॥

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजो‌உस्य तथ्यमिष्टार्थसिद्धये ॥ 213 ॥

यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ 214 ॥

नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलदयैकसिद्धये
नमो नमः करिकलभाननाय ते ॥ 215 ॥

किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः ।
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना ॥ 216 ॥

॥ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ॥

Ganapati Gakara Ashtottara Sata Namavali in Sanskrit

Ganapati Gakara Ashtottara Sata Namavali in Sanskrit
Ganapati Gakara Ashtottara Sata Namavali in Sanskrit

Ganapati Gakara Ashtottara Sata Namavali - Sanskrit Lyrics (Text)
Ganapati Gakara Ashtottara Sata Namavali - Sanskrit Script

ॐ गकाररूपाय नमः
ॐ गम्बीजाय नमः
ॐ गणेशाय नमः
ॐ गणवन्दिताय नमः
ॐ गणाय नमः
ॐ गण्याय नमः
ॐ गणनातीतसद्गुणाय नमः
ॐ गगनादिकसृजे नमः
ॐ गङ्गासुताय नमः
ॐ गङ्गासुतार्चिताय नमः
ॐ गङ्गाधरप्रीतिकराय नमः
ॐ गवीशेड्याय नमः
ॐ गदापहाय नमः
ॐ गदाधरसुताय नमः
ॐ गद्यपद्यात्मककवित्वदाय नमः
ॐ गजास्याय नमः
ॐ गजलक्ष्मीपते नमः
ॐ गजावाजिरथप्रदाय नमः
ॐ गञ्जानिरतशिक्षाकृतये नमः
ॐ गणितज्ञाय नमः
ॐ गण्डदानाञ्चिताय नमः
ॐ गन्त्रे नमः
ॐ गण्डोपलसमाकृतये नमः
ॐ गगनव्यापकाय नमः
ॐ गम्याय नमः
ॐ गमनादिविवर्जिताय नमः
ॐ गण्डदोषहराय नमः
ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः
ॐ गतागतज्ञाय नमः
ॐ गतिदाय नमः
ॐ गतमृत्यवे नमः
ॐ गतोद्भवाय नमः
ॐ गन्धप्रियाय नमः
ॐ गन्धवाहाय नमः
ॐ गन्धसिन्धुरबृन्दगाय नमः
ॐ गन्धादिपूजिताय नमः
ॐ गव्यभोक्त्रे नमः
ॐ गर्गादिसन्नुताय नमः
ॐ गरिष्ठाय नमः
ॐ गरभिदे नमः
ॐ गर्वहराय नमः
ॐ गरलिभूषणाय नमः
ॐ गविष्ठाय नमः
ॐ गर्जितारावाय नमः
ॐ गभीरहृदयाय नमः
ॐ गदिने नमः
ॐ गलत्कुष्ठहराय नमः
ॐ गर्भप्रदाय नमः
ॐ गर्भार्भरक्षकाय नमः
ॐ गर्भाधाराय नमः
ॐ गर्भवासिशिशुज्ञानप्रदाय नमः
ॐ गरुत्मत्तुल्यजवनाय नमः
ॐ गरुडध्वजवन्दिताय नमः
ॐ गयेडिताय नमः
ॐ गयाश्राद्धफलदाय नमः
ॐ गयाकृतये नमः
ॐ गदाधरावतारिणे नमः
ॐ गन्धर्वनगरार्चिताय नमः
ॐ गन्धर्वगानसन्तुष्टाय नमः
ॐ गरुडाग्रजवन्दिताय नमः
ॐ गणरात्रसमाराध्याय नमः
ॐ गर्हणास्तुतिसाम्यधिये नमः
ॐ गर्ताभनाभये नमः
ॐ गव्यूतिदीर्घतुण्डाय नमः
ॐ गभस्तिमते नमः
ॐ गर्हिताचारदूराय नमः
ॐ गरुडोपलभूषिताय नमः
ॐ गजारिविक्रमाय नमः
ॐ गन्धमूषवाजिने नमः
ॐ गतश्रमाय नमः
ॐ गवेषणीयाय नमः
ॐ गहनाय नमः
ॐ गहनस्थमुनिस्तुताय नमः
ॐ गवयच्छिदे नमः
ॐ गण्डकभिदे नमः
ॐ गह्वरापथवारणाय नमः
ॐ गजदन्तायुधाय नमः
ॐ गर्जद्रिपुघ्नाय नमः
ॐ गजकर्णिकाय नमः
ॐ गजचर्मामयच्छेत्रे नमः
ॐ गणाध्यक्षाय नमः
ॐ गणार्चिताय नमः
ॐ गणिकानर्तनप्रीताय नमः
ॐ गच्छते नमः
ॐ गन्धफलीप्रियाय नमः
ॐ गन्धकादिरसाधीशाय नमः
ॐ गणकानन्ददायकाय नमः
ॐ गरभादिजनुर्हर्त्रे नमः
ॐ गण्डकीगाहनोत्सुकाय नमः
ॐ गण्डूषीकृतवाराशये नमः
ॐ गरिमालघिमादिदाय नमः
ॐ गवाक्षवत्सौधवासिने नमः
ॐ गर्भिताय नमः
ॐ गर्भिणीनुताय नमः
ॐ गन्धमादनशैलाभाय नमः
ॐ गण्डभेरुण्डविक्रमाय नमः
ॐ गदिताय नमः
ॐ गद्गदारावसंस्तुताय नमः
ॐ गह्वरीपतये नमः
ॐ गजेशाय नमः
ॐ गरीयसे नमः
ॐ गद्येड्याय नमः
ॐ गतभिदे नमः
ॐ गदितागमाय नमः
ॐ गर्हणीयगुणाभावाय नमः
ॐ गङ्गादिकशुचिप्रदाय नमः
ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः

॥ इति गणपति गकार अष्टोत्तर शतनामावलि ॥

Ganesha Mangalashtakam in Sanskrit

Ganesha Mangalashtakam in Sanskrit
Ganesha Mangalashtakam in Sanskrit
Ganesha Mangalashtakam - Sanskrit Lyrics (Text)
Ganesha Mangalashtakam - Sanskrit Script

गजाननाय गाङ्गेयसहजाय सदात्मने ।
गौरीप्रिय तनूजाय गणेशायास्तु मङ्गलम् ॥ 1 ॥

नागयज्ञोपवीदाय नतविघ्नविनाशिने ।
नन्द्यादि गणनाथाय नायकायास्तु मङ्गलम् ॥ 2 ॥

इभवक्त्राय चेन्द्रादि वन्दिताय चिदात्मने ।
ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् ॥ 3 ॥

सुमुखाय सुशुण्डाग्रात्-क्षिप्तामृतघटाय च ।
सुरबृन्द निषेव्याय चेष्टदायास्तु मङ्गलम् ॥ 4 ॥

चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ।
चरणावनतानन्ततारणायास्तु मङ्गलम् ॥ 5 ॥

वक्रतुण्डाय वटवे वन्याय वरदाय च ।
विरूपाक्ष सुतायास्तु मङ्गलम् ॥ 6 ॥

प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टा पापनाशाय फलदायास्तु मङ्गलम् ॥ 7 ॥

मङ्गलं गणनाथाय मङ्गलं हरसूनने ।
मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलम् ॥ 8 ॥

श्लोकाष्टकमिदं पुण्यं मङ्गलप्रद मादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥

॥ इति श्री गणेश मङ्गलाष्टकम् ॥

Ganesha Mahimna Stotram in Sanskrit

Ganesha Mahimna Stotram in Sanskrit
Ganesha Mahimna Stotram in Sanskrit

Ganesha Mahimna Stotram - Sanskrit Lyrics (Text)
Ganesha Mahimna Stotram - Sanskrit Script

अनिर्वाच्यं रूपं स्तवन निकरो यत्र गलितः तथा वक्ष्ये स्तोत्रं प्रथम पुरुषस्यात्र महतः ।
यतो जातं विश्वस्थितिमपि सदा यत्र विलयः सकीदृग्गीर्वाणः सुनिगम नुतः श्रीगणपतिः ॥ 1 ॥

गकारो हेरम्बः सगुण इति पुं निर्गुणमयो द्विधाप्येकोजातः प्रकृति पुरुषो ब्रह्म हि गणः ।
स चेशश्चोत्पत्ति स्थिति लय करोयं प्रमथको यतोभूतं भव्यं भवति पतिरीशो गणपतिः ॥ 2 ॥

गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकारः कण्ठाधो जठर सदृशाकार इति च ।
अधोभावः कट्यां चरण इति हीशोस्य च तमः विभातीत्थं नाम त्रिभुवन समं भू र्भुव स्सुवः ॥ 3 ॥

गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गलनिधिः दयालुर्हेरम्बो वरद इति चिन्तामणि रजः ।
वरानीशो ढुण्ढिर्गजवदन नामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ 4 ॥

महेशोयं विष्णुः स कवि रविरिन्दुः कमलजः क्षिति स्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ।
कुजस्तारः शुक्रो पुरुरुडु बुधोगुच्च धनदो यमः पाशी काव्यः शनिरखिल रूपो गणपतिः ॥5 ॥

मुखं वह्निः पादौ हरिरसि विधात प्रजननं रविर्नेत्रे चन्द्रो हृदय मपि कामोस्य मदन ।
करौ शुक्रः कट्यामवनिरुदरं भाति दशनं गणेशस्यासन् वै क्रतुमय वपु श्चैव सकलम् ॥ 6 ॥

सिते भाद्रे मासे प्रतिशरदि मध्याह्न समये मृदो मूर्तिं कृत्वा गणपतितिथौ ढुण्ढि सदृशीम् ।
समर्चत्युत्साहः प्रभवति महान् सर्वसदने विलोक्यानन्दस्तां प्रभवति नृणां विस्मय इति ॥7 ॥

गणेशदेवस्य माहात्म्यमेतद्यः श्रावयेद्वापि पठेच्च तस्य ।
क्लेशा लयं यान्ति लभेच्च शीघ्रं श्रीपुत्त्र विद्यार्थि गृहं च मुक्तिम् ॥ 8 ॥

॥ इति श्री गणेश महिम्न स्तोत्रम् ॥

Ganapati Gakara Ashtottara Satanama Stotram in Sanskrit

Ganapati Gakara Ashtottara Satanama Stotram in Sanskrit
Ganapati Gakara Ashtottara Satanama Stotram in Sanskrit

Ganapati Gakara Ashtottara Satanama Stotram - Sanskrit Lyrics (Text)
Ganapati Gakara Ashtottara Satanama Stotram - Sanskrit Script

ॐ गकाररूपाय नमः
ॐ गम्बीजाय नमः
ॐ गणेशाय नमः
ॐ गणवन्दिताय नमः
ॐ गणाय नमः
ॐ गण्याय नमः
ॐ गणनातीतसद्गुणाय नमः
ॐ गगनादिकसृजे नमः
ॐ गङ्गासुताय नमः
ॐ गङ्गासुतार्चिताय नमः
ॐ गङ्गाधरप्रीतिकराय नमः
ॐ गवीशेड्याय नमः
ॐ गदापहाय नमः
ॐ गदाधरसुताय नमः
ॐ गद्यपद्यात्मककवित्वदाय नमः
ॐ गजास्याय नमः
ॐ गजलक्ष्मीपते नमः
ॐ गजावाजिरथप्रदाय नमः
ॐ गञ्जानिरतशिक्षाकृतये नमः
ॐ गणितज्ञाय नमः
ॐ गण्डदानाञ्चिताय नमः
ॐ गन्त्रे नमः
ॐ गण्डोपलसमाकृतये नमः
ॐ गगनव्यापकाय नमः
ॐ गम्याय नमः
ॐ गमनादिविवर्जिताय नमः
ॐ गण्डदोषहराय नमः
ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः
ॐ गतागतज्ञाय नमः
ॐ गतिदाय नमः
ॐ गतमृत्यवे नमः
ॐ गतोद्भवाय नमः
ॐ गन्धप्रियाय नमः
ॐ गन्धवाहाय नमः
ॐ गन्धसिन्धुरबृन्दगाय नमः
ॐ गन्धादिपूजिताय नमः
ॐ गव्यभोक्त्रे नमः
ॐ गर्गादिसन्नुताय नमः
ॐ गरिष्ठाय नमः
ॐ गरभिदे नमः
ॐ गर्वहराय नमः
ॐ गरलिभूषणाय नमः
ॐ गविष्ठाय नमः
ॐ गर्जितारावाय नमः
ॐ गभीरहृदयाय नमः
ॐ गदिने नमः
ॐ गलत्कुष्ठहराय नमः
ॐ गर्भप्रदाय नमः
ॐ गर्भार्भरक्षकाय नमः
ॐ गर्भाधाराय नमः
ॐ गर्भवासिशिशुज्ञानप्रदाय नमः
ॐ गरुत्मत्तुल्यजवनाय नमः
ॐ गरुडध्वजवन्दिताय नमः
ॐ गयेडिताय नमः
ॐ गयाश्राद्धफलदाय नमः
ॐ गयाकृतये नमः
ॐ गदाधरावतारिणे नमः
ॐ गन्धर्वनगरार्चिताय नमः
ॐ गन्धर्वगानसन्तुष्टाय नमः
ॐ गरुडाग्रजवन्दिताय नमः
ॐ गणरात्रसमाराध्याय नमः
ॐ गर्हणास्तुतिसाम्यधिये नमः
ॐ गर्ताभनाभये नमः
ॐ गव्यूतिदीर्घतुण्डाय नमः
ॐ गभस्तिमते नमः
ॐ गर्हिताचारदूराय नमः
ॐ गरुडोपलभूषिताय नमः
ॐ गजारिविक्रमाय नमः
ॐ गन्धमूषवाजिने नमः
ॐ गतश्रमाय नमः
ॐ गवेषणीयाय नमः
ॐ गहनाय नमः
ॐ गहनस्थमुनिस्तुताय नमः
ॐ गवयच्छिदे नमः
ॐ गण्डकभिदे नमः
ॐ गह्वरापथवारणाय नमः
ॐ गजदन्तायुधाय नमः
ॐ गर्जद्रिपुघ्नाय नमः
ॐ गजकर्णिकाय नमः
ॐ गजचर्मामयच्छेत्रे नमः
ॐ गणाध्यक्षाय नमः
ॐ गणार्चिताय नमः
ॐ गणिकानर्तनप्रीताय नमः
ॐ गच्छते नमः
ॐ गन्धफलीप्रियाय नमः
ॐ गन्धकादिरसाधीशाय नमः
ॐ गणकानन्ददायकाय नमः
ॐ गरभादिजनुर्हर्त्रे नमः
ॐ गण्डकीगाहनोत्सुकाय नमः
ॐ गण्डूषीकृतवाराशये नमः
ॐ गरिमालघिमादिदाय नमः
ॐ गवाक्षवत्सौधवासिने नमः
ॐ गर्भिताय नमः
ॐ गर्भिणीनुताय नमः
ॐ गन्धमादनशैलाभाय नमः
ॐ गण्डभेरुण्डविक्रमाय नमः
ॐ गदिताय नमः
ॐ गद्गदारावसंस्तुताय नमः
ॐ गह्वरीपतये नमः
ॐ गजेशाय नमः
ॐ गरीयसे नमः
ॐ गद्येड्याय नमः
ॐ गतभिदे नमः
ॐ गदितागमाय नमः
ॐ गर्हणीयगुणाभावाय नमः
ॐ गङ्गादिकशुचिप्रदाय नमः
ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः

॥ इति गणपति गकार अष्टोत्तर शतनामावलि ॥

Ganesha Shodasha Namavali, Shodashanama Stotram in Sanskrit


Shodashanama Stotram in Sanskrit
Shodashanama Stotram in Sanskrit
Ganesha Shodasha Namavali, Shodashanama Stotram - Sanskrit Lyrics (Text)
Ganesha Shodasha Namavali, Shodashanama Stotram - Sanskrit Script

श्री विघ्नेश्वर षोडश नामावलिः
ॐ सुमुखाय नमः
ॐ एकदन्ताय नमः
ॐ कपिलाय नमः
ॐ गजकर्णकाय नमः
ॐ लम्बोदराय नमः
ॐ विकटाय नमः
ॐ विघ्नराजाय नमः
ॐ गणाधिपाय नमः
ॐ धूम्रकेतवे नमः
ॐ गणाध्यक्षाय नमः
ॐ फालचन्द्राय नमः
ॐ गजाननाय नमः
ॐ वक्रतुण्डाय नमः
ॐ शूर्पकर्णाय नमः
ॐ हेरम्बाय नमः
ॐ स्कन्दपूर्वजाय नमः

श्री विघ्नेश्वर षोडशनाम स्तोत्रम्
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ 1 ॥

धूम्र केतुः गणाध्यक्षो फालचन्द्रो गजाननः ।
वक्रतुण्ड श्शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ 2 ॥

षोडशैतानि नामानि यः पठेत् शृणु यादपि ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ 3 ॥

Ganesha Kavacham in Sanskrit

Ganesha Kavacham in Sanskrit
Ganesha Kavacham in Sanskrit
Ganesha Kavacham - Sanskrit Lyrics (Text)
Ganesha Kavacham - Sanskrit Script

एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥

दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।
अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ॥ 2 ॥

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई
द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ 3 ॥

विनायक श्शिखाम्पातु परमात्मा परात्परः ।
अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः ॥ 4 ॥

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥ 5 ॥

जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान्‌ रक्षतु दुर्मुखः ॥ 6 ॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः ॥ 7 ॥

स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ 8 ॥

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ 9 ॥

गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु ॥ 10 ॥

क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः ॥ 11 ॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु ।
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ॥ 12 ॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ 13 ॥

दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ 14 ॥

कौबेर्यां निधिपः पायादीशान्याविशनन्दनः ।
दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् ॥ 15 ॥

राक्षसासुर बेताल ग्रह भूत पिशाचतः ।
पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ॥ 16 ॥

ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥ 17 ॥

सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ।
कपिलो जानुकं पातु गजाश्वान् विकटोवतु ॥ 18 ॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ।
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥ 19 ॥

त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ 20 ॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि ॥ 21 ॥

सप्तवारं जपेदेतद्दनानामेकविंशतिः ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ 22 ॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ॥ 23 ॥

राजदर्शन वेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ 24 ॥

इदं गणेशकवचं कश्यपेन सविरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ 25 ॥

मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ 26 ॥

अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ।
राक्षसासुर बेताल दैत्य दानव सम्भवाः ॥ 27 ॥

॥ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ॥

Ganapati Atharva Sheersham in Sanskrit


Ganapati Atharva Sheersham in Sanskrit
Ganapati Atharva Sheersham – Sanskrit Lyrics (Text)
Ganapati Atharva Sheersham – Sanskrit Script

॥ गणपत्यथर्वशीर्षोपनिषत् (श्री गणेषाथर्वषीर्षम्) ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॓स्तुष्ठु॒वाग्‍ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्ता॑‌உसि । त्वमे॒व के॒वलं॒ धर्ता॑‌உसि । त्वमे॒व के॒वलं॒ हर्ता॑‌உसि । त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑‌உसि नि॒त्यम् ॥ 1 ॥
ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ 2 ॥

अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्॓ । अव॑ श्रो॒तारम्॓ । अव॑ दा॒तारम्॓ । अव॑ धा॒तारम्॓ । अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता॓त् । अव॑ पु॒रस्ता॓त् । अवोत्त॒रात्ता॓त् । अव॑ द॒क्षिणात्ता॓त् । अव॑ चो॒र्ध्वात्ता॓त् । अवाध॒रात्ता॓त् । सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ 3 ॥

त्वं वाङ्मय॑स्त्वं चिन्म॒यः । त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः । त्वं सच्चिदानन्दा‌உद्वि॑तीयो॒‌உसि । त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒‌உसि ॥ 4 ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति । सर्वं जगदिदं त्वयि लय॑मेष्य॒ति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति । त्वं भूमिरापो‌உनलो‌உनि॑लो न॒भः । त्वं चत्वारि वा॓क्पदा॒नि ॥ 5 ॥

त्वं गु॒णत्र॑याती॒तः । त्वम् अवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः । त्वं मूलाधारस्थितो॑‌உसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः । त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ स्वरोम् ॥ 6 ॥

ग॒णादिं॓ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं॓ स्तदन॒न्तरम् । अनुस्वारः प॑रत॒रः । अर्धे॓न्दुल॒सितम् । तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पू॓र्वरू॒पम् । अकारो मध्य॑मरू॒पम् । अनुस्वारश्चा॓न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः । सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्रीच्छ॒न्दः । श्री महागणपति॑र्देवता । ॐ गं ग॒णप॑तये नमः ॥ 7 ॥

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया॓त् ॥ 8 ॥

एकदन्॒तं च॑तुर्ह॒स्तं॒ पा॒शमं॑कुश॒धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् । रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒कर्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् । भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृते॓ः पुरु॒षात्प॑रम् । एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ 9 ॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते‌உस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒
नमः ॥ 10 ॥

एतदथर्वशीर्षं यो‌உधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै॓र्न बा॒ध्यते । स सर्वतः सुख॑मेध॒ते । स पञ्चमहापापा॓त् प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति । सायं प्रातः प्र॑युञ्जा॒नो॒ पापो‌உपा॑पो भ॒वति । धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति । सहस्रावर्तनाद्यं यं काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ 11 ॥

अनेन गणपतिम॑भिषि॒ञ्चति । स वा॑ग्मी भ॒वति । चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति । इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्या॒चर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ 12 ॥

यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ 13 ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति । सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति । महाविघ्ना॓त् प्रमु॒च्यते । महादोषा॓त् प्रमु॒च्यते । महापापा॓त् प्रमु॒च्यते । महाप्रत्यवाया॓त् प्रमु॒च्यते । स सर्व॑विद्भवति स सर्व॑विद्भ॒वति । य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ 14 ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॓स्तुष्ठु॒वाग्‍ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Ganesha Ashtottara Sata Nama Stotram in Sanskrit

Ganesha Ashtottara Sata Nama Stotram in Sanskrit
Ganesha Ashtottara Sata Nama Stotram in Sanskrit
Ganesha Ashtottara Sata Nama Stotram – Sanskrit Lyrics (Text)
Ganesha Ashtottara Sata Nama Stotram – Sanskrit Script

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कन्दाग्रजोव्ययः पूतो दक्षोज़्ध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदोज़्व्ययः
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ 4 ॥

लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ॥ 6 ॥

बीजपूरफलासक्तो वरदश्शाश्वतः कृती ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ॥ 9 ॥

शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः ।
ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ॥ 10 ॥

प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ।
रमार्चितोविधिर्नागराजयज्ञोपवीतवान् ॥ 11 ॥

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ।
स्थूलतुण्डोज़्ग्रणीर्धीरो वागीशस्सिद्धिदायकः ॥ 12 ॥

दूर्वाबिल्वप्रियोज़्व्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ 13 ॥

स्वलावण्यसुधासारो जितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥ 14 ॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ 15 ॥

तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

Ganesha Ashtottara Sata Namavali in Sanskrit

Ganesha Ashtottara Sata Namavali in Sanskrit
Ganesha Ashtottara Sata Namavali in Sanskrit
Ganesha Ashtottara Sata Namavali – Sanskrit Lyrics (Text)
Ganesha Ashtottara Sata Namavali – Sanskrit Script

ॐ गजाननाय नमः
ॐ गणाध्यक्षाय नमः
ॐ विघ्नाराजाय नमः
ॐ विनायकाय नमः
ॐ द्त्वेमातुराय नमः
ॐ द्विमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सुमुखाय नमः
ॐ कृतिने नमः
ॐ सुप्रदीपाय नमः (10)
ॐ सुख निधये नमः
ॐ सुराध्यक्षाय नमः
ॐ सुरारिघ्नाय नमः
ॐ महागणपतये नमः
ॐ मान्याय नमः
ॐ महा कालाय नमः
ॐ महा बलाय नमः
ॐ हेरम्बाय नमः
ॐ लम्ब जठराय नमः
ॐ ह्रस्व ग्रीवाय नमः (20)
ॐ महोदराय नमः
ॐ मदोत्कटाय नमः
ॐ महावीराय नमः
ॐ मन्त्रिणे नमः
ॐ मङ्गल स्वराय नमः
ॐ प्रमधाय नमः
ॐ प्रथमाय नमः
ॐ प्राज्ञाय नमः
ॐ विघ्नकर्त्रे नमः
ॐ विघ्नहन्त्रे नमः (30)
ॐ विश्व नेत्रे नमः
ॐ विराट्पतये नमः
ॐ श्रीपतये नमः
ॐ वाक्पतये नमः
ॐ शृङ्गारिणे नमः
ॐ अश्रित वत्सलाय नमः
ॐ शिवप्रियाय नमः
ॐ शीघ्रकारिणे नमः
ॐ शाश्वताय नमः
ॐ बलाय नमः (40)
ॐ बलोत्थिताय नमः
ॐ भवात्मजाय नमः
ॐ पुराण पुरुषाय नमः
ॐ पूष्णे नमः
ॐ पुष्करोत्षिप्त वारिणे नमः
ॐ अग्रगण्याय नमः
ॐ अग्रपूज्याय नमः
ॐ अग्रगामिने नमः
ॐ मन्त्रकृते नमः
ॐ चामीकर प्रभाय नमः (50)
ॐ सर्वाय नमः
ॐ सर्वोपास्याय नमः
ॐ सर्व कर्त्रे नमः
ॐ सर्वनेत्रे नमः
ॐ सर्वसिध्धि प्रदाय नमः
ॐ सर्व सिद्धये नमः
ॐ पञ्चहस्ताय नमः
ॐ पार्वतीनन्दनाय नमः
ॐ प्रभवे नमः
ॐ कुमार गुरवे नमः (60)
ॐ अक्षोभ्याय नमः
ॐ कुञ्जरासुर भञ्जनाय नमः
ॐ प्रमोदाय नमः
ॐ मोदकप्रियाय नमः
ॐ कान्तिमते नमः
ॐ धृतिमते नमः
ॐ कामिने नमः
ॐ कपित्थवन प्रियाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ ब्रह्मरूपिणे नमः (70)
ॐ ब्रह्मविद्यादि दानभुवे नमः
ॐ जिष्णवे नमः
ॐ विष्णुप्रियाय नमः
ॐ भक्त जीविताय नमः
ॐ जित मन्मथाय नमः
ॐ ऐश्वर्य कारणाय नमः
ॐ ज्यायसे नमः
ॐ यक्षकिन्नेर सेविताय नमः
ॐ गङ्गा सुताय नमः
ॐ गणाधीशाय नमः (80)
ॐ गम्भीर निनदाय नमः
ॐ वटवे नमः
ॐ अभीष्ट वरदायिने नमः
ॐ ज्योतिषे नमः
ॐ भक्त निथये नमः
ॐ भाव गम्याय नमः
ॐ मङ्गल प्रदाय नमः
ॐ अव्वक्ताय नमः
ॐ अप्राकृत पराक्रमाय नमः
ॐ सत्य धर्मिणे नमः (90)
ॐ सखये नमः
ॐ सरसाम्बु निथये नमः
ॐ महेशाय नमः
ॐ दिव्याङ्गाय नमः
ॐ मणिकिङ्किणी मेखालाय नमः
ॐ समस्त देवता मूर्तये नमः
ॐ सहिष्णवे नमः
ॐ सततोत्थिताय नमः
ॐ विघात कारिणे नमः
ॐ विश्वग्दृशे नमः (100)
ॐ विश्वरक्षाकृते नमः
ॐ कल्याण गुरवे नमः
ॐ उन्मत्त वेषाय नमः
ॐ अपराजिते नमः
ॐ समस्त जगदाधाराय नमः
ॐ सर्त्वेश्वर्य प्रदाय नमः
ॐ आक्रान्त चिद चित्प्रभवे नमः
ॐ श्री विघ्नेश्वराय नमः (108)

Sree Maha Ganesha Pancharatnam in Sanskrit

Sree Maha Ganesha Pancharatnam in Sanskrit
Sree Maha Ganesha Pancharatnam in Sanskrit
Sree Maha Ganesha Pancharatnam – Sanskrit Lyrics (Text)
Sree Maha Ganesha Pancharatnam – Sanskrit Script

रचन: आदि शङ्कराचार्य

मुदा करात्त मोदकं सदा विमुक्ति साधकम् ।
कलाधरावतंसकं विलासिलोक रक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकम् ।
नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥

नतेतराति भीकरं नवोदितार्क भास्वरम् ।
नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥

समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।
दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥

अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् ।
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।
प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम् ।
कपोल दानवारणं भजे पुराण वारणम् ॥ 4 ॥

नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् ।
अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् ।
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ 5 ॥

महागणेश पञ्चरत्नमादरेण यो‌உन्वहम् ।
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रताम् ।
समाहितायु रष्टभूति मभ्युपैति सो‌உचिरात् ॥

Ganapati Prarthana Ghanapatham in Sanskrit

Ganapati Prarthana Ghanapatham in Sanskrit
Ganapati Prarthana Ghanapatham in Sanskrit

Ganapati Prarthana Ghanapatham – Sanskrit Lyrics (Text)
Ganapati Prarthana Ghanapatham – Sanskrit Script

ॐ ग॒णाना॓म् त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नाम् उप॒मश्र॑वस्तवम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

प्रणो॑ दे॒वी सर॑स्वती॒ । वाजे॑भिर् वा॒जिनीवती । धी॒नाम॑वि॒त्र्य॑वतु ॥

ग॒णे॒शाय॑ नमः । स॒रस्व॒त्यै नमः । श्री गु॒रु॒भ्यो॒ नमः ।

हरिः ॐ ॥

घनापाठः

ग॒णाना॓म् त्वा ग॒णाना॓म् ग॒णाना॓म् त्वा ग॒णप॑तिं ग॒णप॑तिं त्वा ग॒णानां॓ ग॒णानां॓ त्वा ग॒णप॑तिम् ॥

त्वा॒ ग॒णप॑तिं त्वात्वा ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑तिं त्वात्वा गणप॑तिग्ं हवामहे । ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑तिं ग॒णप॑तिग्ं हवामहे क॒विन्क॒विग्ं ह॑वामहे ग॒णप॑तिं ग॒णप॑तिग्ं हवामहे क॒विम् । ग॒णप॑ति॒मिति॑ग॒ण-प॒ति॒म् ॥

ह॒वा॒म॒हे॒ क॒विं क॒विग्॒ं॒ ह॑वामहे हवामहे क॒विं क॑वी॒नान्क॑वी॒नां क॒विग्ं॒ ह॑वामहे हवामहे क॒विन्क॑वी॒नाम् ॥

क॒विन्क॑वी॒नान्क॒वी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तम मुप॒मश्र॑वस्तम न्कवी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ॥

क॒वी॒नामु॑प॒मश्र॑व स्तममुप॒मश्र॑वस्तमं कवी॒ना न्क॑वी॒ना मु॑प॒मश्र॑वस्तमम् । उ॒प॒मश्र॑वस्तम॒ मित्यु॑प॒मश्र॑वः-त॒म॒म् ॥

ज्ये॒ष्ट॒राजं॒ ब्रह्म॑णां ब्रह्म॑णां ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णां ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणः । ज्ये॒ष्ठ॒राज॒मिति॑ज्येष्ठ राजम्॓ ॥

ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णां॒ ब्रह्म॑णां॒ ब्रह्मणस्पते पतेब्रह्मणो॒ ब्रह्म॑णां॒ ब्रह्म॑णां ब्रह्मणस्पते ॥

ब्र॒ह्म॒ण॒स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒स्प॒त॒ आप॑ते ब्रह्मणो ब्रह्मणस्पत॒ आ । प॒त॒ आ प॑तेपत॒ आनो॑न॒ आप॑ते पत॒ आनः॑ ॥

आनो॑न॒ आन॑श्शृ॒ण्वन् छृण्वन्न॒ आन॑श्शृण्वन् । न॒ श्शृण्वन् छृ॒ण्वन्नो॑न श्शृ॒ण्वन्नूतिभि॑ रू॒तिभि॒श्शृण्वन्नो॑न श्शृ॒ण्वन्नू॒तिभिः॑ ॥

श्शृ॒ण्वन्नू॒तिभि॑ रू॒तिभि॒श्शृ॒ण्वन् छृ॒ण्वन्नू॒तिभि॑स्सीद सीदो॒तिभि॑श्शृ॒ण्वन् छृ॒ण्वन्नू॒तिभि॑स्सीद ॥

ऊ॒तिभि॑स्सीद सीदो॒तिभि॑ रू॒तिभि॑स्सीद॒ साद॑न॒ग्ं॒ साद॑नग्ं॒ सीदो॒तिभि॑रू॒तिभि॑स्सीद॒ साद॑नम् । ऊ॒तिभि॒ रित्यू॒ति-भिः॒ ॥

सी॒द॒साद॑न॒ग्ं॒ साद॑नग्ं॒ सीद सीद॒ साद॑नम् । साद॑न॒मिति॒ साद॑नम् ॥

प्रणो॑ नः॒ प्रप्रणो॑ दे॒वी दे॒वी नः॒ प्रप्रणो॑ दे॒वी । नो॑ दे॒वी दे॒वी नो॑नो दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी नो॑ नो दे॒वी सर॑स्वती ॥

दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी दे॒वी सर॑स्वती॒ वाजे॒भि॒र्वाजे॑भि॒ स्सर॑स्वती दे॒वी दे॒वी सर॑स्वती दे॒वी सर॒स्वती॒ वाजे॑भिः ॥

सर॑स्वती॒ वाजे॑भि॒ र्वाजे॑भि॒ स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भि र्वा॒जिनी॑वती वा॒हिनी॑वती॒ वाजे॑भि॒ स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भि र्वा॒जिनी॑वती ॥

वाजे॑भिर्वा॒जिनी॑वती वा॒जिनी॑वती वाजे॑भि॒र्वाजे॑भिर्वा॒जिनी॑वती । वा॒जिनी॑व॒तीति॑ वा॒जिनी॑वती वाजे॑भि॒र्वाजे॑भिर्वा॒जिनी॑वती । वा॒जिनी॑व॒तीति॑ वा॒जिनी॑-व॒ती॒ ॥

धी॒ना म॑वि॒त्र्य॑वि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑ वत्व वत्ववि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑वतु । अ॒वि॒त्र्य॑वत्वव त्ववि॒त्र्य॑वि॒ त्र्य॑वतु । अ॒व॒त्वित्य॑वतु ॥