Pages

Ganesha Ashtottara Sata Nama Stotram in Sanskrit

Ganesha Ashtottara Sata Nama Stotram in Sanskrit
Ganesha Ashtottara Sata Nama Stotram in Sanskrit
Ganesha Ashtottara Sata Nama Stotram – Sanskrit Lyrics (Text)
Ganesha Ashtottara Sata Nama Stotram – Sanskrit Script

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कन्दाग्रजोव्ययः पूतो दक्षोज़्ध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदोज़्व्ययः
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ 4 ॥

लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ॥ 6 ॥

बीजपूरफलासक्तो वरदश्शाश्वतः कृती ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ॥ 9 ॥

शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः ।
ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ॥ 10 ॥

प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ।
रमार्चितोविधिर्नागराजयज्ञोपवीतवान् ॥ 11 ॥

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ।
स्थूलतुण्डोज़्ग्रणीर्धीरो वागीशस्सिद्धिदायकः ॥ 12 ॥

दूर्वाबिल्वप्रियोज़्व्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ 13 ॥

स्वलावण्यसुधासारो जितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥ 14 ॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ 15 ॥

तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

No comments:

Post a Comment