Pages

Ganapati Prarthana Ghanapatham in Sanskrit

Ganapati Prarthana Ghanapatham in Sanskrit
Ganapati Prarthana Ghanapatham in Sanskrit

Ganapati Prarthana Ghanapatham – Sanskrit Lyrics (Text)
Ganapati Prarthana Ghanapatham – Sanskrit Script

ॐ ग॒णाना॓म् त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नाम् उप॒मश्र॑वस्तवम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

प्रणो॑ दे॒वी सर॑स्वती॒ । वाजे॑भिर् वा॒जिनीवती । धी॒नाम॑वि॒त्र्य॑वतु ॥

ग॒णे॒शाय॑ नमः । स॒रस्व॒त्यै नमः । श्री गु॒रु॒भ्यो॒ नमः ।

हरिः ॐ ॥

घनापाठः

ग॒णाना॓म् त्वा ग॒णाना॓म् ग॒णाना॓म् त्वा ग॒णप॑तिं ग॒णप॑तिं त्वा ग॒णानां॓ ग॒णानां॓ त्वा ग॒णप॑तिम् ॥

त्वा॒ ग॒णप॑तिं त्वात्वा ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑तिं त्वात्वा गणप॑तिग्ं हवामहे । ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑तिं ग॒णप॑तिग्ं हवामहे क॒विन्क॒विग्ं ह॑वामहे ग॒णप॑तिं ग॒णप॑तिग्ं हवामहे क॒विम् । ग॒णप॑ति॒मिति॑ग॒ण-प॒ति॒म् ॥

ह॒वा॒म॒हे॒ क॒विं क॒विग्॒ं॒ ह॑वामहे हवामहे क॒विं क॑वी॒नान्क॑वी॒नां क॒विग्ं॒ ह॑वामहे हवामहे क॒विन्क॑वी॒नाम् ॥

क॒विन्क॑वी॒नान्क॒वी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तम मुप॒मश्र॑वस्तम न्कवी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ॥

क॒वी॒नामु॑प॒मश्र॑व स्तममुप॒मश्र॑वस्तमं कवी॒ना न्क॑वी॒ना मु॑प॒मश्र॑वस्तमम् । उ॒प॒मश्र॑वस्तम॒ मित्यु॑प॒मश्र॑वः-त॒म॒म् ॥

ज्ये॒ष्ट॒राजं॒ ब्रह्म॑णां ब्रह्म॑णां ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णां ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणः । ज्ये॒ष्ठ॒राज॒मिति॑ज्येष्ठ राजम्॓ ॥

ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णां॒ ब्रह्म॑णां॒ ब्रह्मणस्पते पतेब्रह्मणो॒ ब्रह्म॑णां॒ ब्रह्म॑णां ब्रह्मणस्पते ॥

ब्र॒ह्म॒ण॒स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒स्प॒त॒ आप॑ते ब्रह्मणो ब्रह्मणस्पत॒ आ । प॒त॒ आ प॑तेपत॒ आनो॑न॒ आप॑ते पत॒ आनः॑ ॥

आनो॑न॒ आन॑श्शृ॒ण्वन् छृण्वन्न॒ आन॑श्शृण्वन् । न॒ श्शृण्वन् छृ॒ण्वन्नो॑न श्शृ॒ण्वन्नूतिभि॑ रू॒तिभि॒श्शृण्वन्नो॑न श्शृ॒ण्वन्नू॒तिभिः॑ ॥

श्शृ॒ण्वन्नू॒तिभि॑ रू॒तिभि॒श्शृ॒ण्वन् छृ॒ण्वन्नू॒तिभि॑स्सीद सीदो॒तिभि॑श्शृ॒ण्वन् छृ॒ण्वन्नू॒तिभि॑स्सीद ॥

ऊ॒तिभि॑स्सीद सीदो॒तिभि॑ रू॒तिभि॑स्सीद॒ साद॑न॒ग्ं॒ साद॑नग्ं॒ सीदो॒तिभि॑रू॒तिभि॑स्सीद॒ साद॑नम् । ऊ॒तिभि॒ रित्यू॒ति-भिः॒ ॥

सी॒द॒साद॑न॒ग्ं॒ साद॑नग्ं॒ सीद सीद॒ साद॑नम् । साद॑न॒मिति॒ साद॑नम् ॥

प्रणो॑ नः॒ प्रप्रणो॑ दे॒वी दे॒वी नः॒ प्रप्रणो॑ दे॒वी । नो॑ दे॒वी दे॒वी नो॑नो दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी नो॑ नो दे॒वी सर॑स्वती ॥

दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी दे॒वी सर॑स्वती॒ वाजे॒भि॒र्वाजे॑भि॒ स्सर॑स्वती दे॒वी दे॒वी सर॑स्वती दे॒वी सर॒स्वती॒ वाजे॑भिः ॥

सर॑स्वती॒ वाजे॑भि॒ र्वाजे॑भि॒ स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भि र्वा॒जिनी॑वती वा॒हिनी॑वती॒ वाजे॑भि॒ स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भि र्वा॒जिनी॑वती ॥

वाजे॑भिर्वा॒जिनी॑वती वा॒जिनी॑वती वाजे॑भि॒र्वाजे॑भिर्वा॒जिनी॑वती । वा॒जिनी॑व॒तीति॑ वा॒जिनी॑वती वाजे॑भि॒र्वाजे॑भिर्वा॒जिनी॑वती । वा॒जिनी॑व॒तीति॑ वा॒जिनी॑-व॒ती॒ ॥

धी॒ना म॑वि॒त्र्य॑वि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑ वत्व वत्ववि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑वतु । अ॒वि॒त्र्य॑वत्वव त्ववि॒त्र्य॑वि॒ त्र्य॑वतु । अ॒व॒त्वित्य॑वतु ॥

No comments:

Post a Comment